|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.18. अध्यायः 018
Mahabharata - Vana Parva - Chapter Topics
प्रद्युम्ने साल्वबाणाभिहत्या मूर्च्छिते सारथिना रणाङ्गणादन्यतो रथयापनम् ॥ 1 ॥ ततः प्रतिबुद्धेन प्रद्युम्नेन सारधिं प्रति सविषादोक्तिः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वासुदेव उवाच। 3-18-0x(1832)(16365)
साल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनांवरे।
वृष्णयो भग्नसंकल्पा विव्यथुः पृतनामुखे ॥ 3-18-1(16366)
हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं ततः।
प्रद्युम्ने मोहिते राजन्साल्वः प्रमुदितोऽभवत् ॥ 3-18-2(16367)
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः।
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा ॥ 3-18-3(16368)
नातिदूरापयाते तु रथे रथवरप्रणुत्।
धनुर्गृहीत्वा यन्तारं लब्धसज्ञोऽब्रवीदिदम् ॥ 3-18-4(16369)
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः।
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ 3-18-5(16370)
कच्चित्सौते न ते मोहः साल्वं दृष्ट्वा महाहवे।
विषादो वा रणँ दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥ 3-18-6(16371)
सौतिरुवाच। 3-18-7x(1833)
जानार्दने न मे मोहो नापि मां भयमाविशत्।
अतिभारं तु ते मन्ये साल्वं केशवनन्दन ॥ 3-18-7(16372)
सोभियाति शनैर्वीर बलवानेष पापकृत्।
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ 3-18-8(16373)
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम्।
रक्षितव्यो रणे नित्यमिति कृत्वाऽपयाम्यहम् ॥ 3-18-9(16374)
एकश्चासि महाबाहो बहवश्चापि दानवाः।
न समं रौक्मिणेयाहं रणए मत्वाऽपयामि वा ॥ 3-18-10(16375)
वासुदेव उवाच। 3-18-11x(1834)
एवं ब्रुवति सूते तु तदा मकरकेतुमान्।
उवाच सूतं कौरव्य संनिवर्त्य रथं पुनः ॥ 3-18-11(16376)
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन।
न्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥ 3-18-12(16377)
न स वृष्णिकुले जातो यो वै त्यजति संगरम्।
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ 3-18-13(16378)
तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च।
विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा ॥ 3-18-14(16379)
त्वं च सूतकुले जातो विदितः सूतकर्मणि।
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ 3-18-15(16380)
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे।
अपयानं पुन सौते मैवं कार्षीः कथंचन ॥ 3-18-16(16381)
अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम्।
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥ 3-18-17(16382)
केशवस्याग्रजो वाऽपि नीलवासा मदोत्कटः।
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ 3-18-18(16383)
किं वक्ष्यतिशिनेर्नप्ता रणसिंहो महारथः।
अपयातं रणात्सूत साम्बश्च समितिंजयः ॥ 3-18-19(16384)
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ।
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ 3-18-20(16385)
शूरं संभावितं शान्तं नित्यं पुरुषमानिनम्।
स्त्रियश्च वृष्णिवीराणां किं मांवक्ष्यन्ति संगताः ॥ 3-18-21(16386)
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम्।
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ 3-18-22(16387)
धिग्वाचा परिहासोपि मम वा मद्विधस्य वा।
मृत्युनाऽभ्यधिकः सौते स त्वं माव्यपयाः पुनः ॥ 3-18-23(16388)
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः।
यज्ञं बारतसिंहस्य न हि शक्योऽद्यमर्षितुम् । 3-18-24(16389)
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः।
साल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ 3-18-25(16390)
स च संभावयन्मां वै निवृत्तो हृदिकात्मजः।
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथं ॥ 3-18-26(16391)
उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम्।
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ 3-18-27(16392)
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः।
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहं ॥ 3-18-28(16393)
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः।
त्वयाऽपनीती विवशो न जीवेयं कथंचन ॥ 3-18-29(16394)
संनिवर्त रथेनाशु पुनर्दारुकनन्दन।
न चैतदेवं कर्तव्यमथापत्सु कथंचन ॥ 3-18-30(16395)
न जीवितमहं सौते बहु मन्ये कथंचन।
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥ 3-18-31(16396)
कदाऽपि सूतपुत्र त्वं जानीषे मां भयार्दितम्।
अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ 3-18-32(16397)
अयुक्तं तु मया त्यक्तुं संग्रामं दारुकात्मज।
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥ 3-18-33(16398)
इति श्रीमन्महाभारते अरण्यपर्णणि अर्जुनाभिगमनपर्वणि अष्टादशोऽध्यायः ॥ 19 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-18-2 परे च मुदिता भृशम्। इति झ. पाठः ॥ 3-18-11 रथं पुनः इति झ. पाठः ॥ 3-18-19 शिनेर्नप्ता सात्यकिः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|